ऋजुरोहितम्

सुधाव्याख्या

तदिन्द्रधनुरुत्पातादिना ऋजु अवक्रं सद्रोहितं स्यात् । 'रुहे रश्च लो वा' (उ० ३.९४) इतीतन् । 'रोहितं रुधिरे धीरऋजुशक्रशरासने । रोहितो मीनमृगयोर्भेदे रोहितकद्रुमे’ इति विश्वः । यद्वा-रोहणं रोह: संजातोऽस्येति । तारकादित्वात् (५.२.३६) इतच् ।