मेघज्योतिः

सुधाव्याख्या

मेघेति । अन्योन्यस्य संघट्टेन मेघान्निःसृत्य वृक्षादौ ज्योतिः पतति स इरंमदः । इरया जलेन माद्यति दीप्यते । अबिन्धनत्वात् । उग्रंपश्येरंमद-’ (३.२.३७) इति साधुः । मेघेत्युपलक्षणम् । तेन बाडवोऽपि । अत एव ‘मेघाग्न्यादिरिरंमदः’ इति शब्दार्णवः ।