इरमंदः

सुधाव्याख्या

अन्योन्यस्य संघट्टेन मेघान्निःसृत्य वृक्षादौ ज्योतिः पतति स इरंमदः । इरया जलेन माद्यति दीप्यते । अबिन्धनत्वात् । उग्रंपश्येरंमद-’ (३.२.३७) इति साधुः । मेघेत्युपलक्षणम् । तेन बाडवोऽपि । अत एव ‘मेघाग्न्यादिरिरंमदः’ इति शब्दार्णवः ।


प्रक्रिया

धातुः - मदीँ हर्षे ग्लेपने च


मद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
इर + टा + मद् + खश् - उपपदमतिङ् 2.2.19, उग्रम्पश्येरम्मदपाणिन्धमाश्च 3.2.37
इर + मद् + खश् - सुपो धातुप्रातिपदिकयोः 2.4.71
इर + मद् + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
इर + मुम् + मद् + अ - अरुर्द्विषदजन्तस्य मुम् 6.3.67
इर + म् + मद् + अ - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
इरम्मद + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
इरम्मद + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
इरम्मद + रु - ससजुषो रुः 8.2.66
इरम्मद + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
इरम्मदः - खरवसानयोर्विसर्जनीयः 8.3.15