वज्रनिर्घोषः

सुधाव्याख्या

वज्रनिर्घोषोऽशनिशब्दः । ’वज्रनिष्पेषे’ इति पाठे ‘पिष्लृ संचूर्णने’ (रु० प० अ०), घञ् (३.३.१८), ‘इदुदुपधस्य (८.३.४१) इति षः । निष्पेषशब्दस्तदुत्थशब्दपरः । संघट्टमात्रपरः – इत्यन्ये ।