पद्मिनी

सुधाव्याख्या

एवं पद्मिनी । मुखशब्दादाद्यर्थात् मृगालिनी कमलिनी पुटकिनीत्यादयः । ‘पद्मिनी पद्मसंघाते स्त्रीविशेषे सरोऽम्बुजे इति मेदिनी । ‘पद्मिनी योषिदन्तरे । अब्जेऽब्जिन्यां सरस्यां च' इति हैमः । (३) त्रीणि पद्मसंघातस्य । कमलिन्यां इत्यन्ये ।