पद्मम्

सुधाव्याख्या

वेति । पद्यते । ‘पद गतौ’ (दि० आ० अ०) । ‘अर्तिस्तुसु-' (उ० १.१४०) इति मन् । ‘पद्मोऽस्त्री पद्मके व्यूहनिधिसंख्यान्तरेऽम्बुजे । ना नागे, स्त्री फञ्जिकाश्रीचार्वाटीपत्रगीषु च' ॥


प्रक्रिया

धातुः - पदँ गतौ


पद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पद् + मन् – अर्तिस्तुसुहुसृधृभिक्षुभायावापदियक्षिनीभ्यो मन् (१.१४०) । उणादिसूत्रम् ।
पद्म - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पद्म + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पद्म + अम् - अतोऽम् 7.1.24
पद्मम् - अमि पूर्वः 6.1.107