नलिनी

सुधाव्याख्या

नलिन्यामिति । नडा: सन्त्यत्र । पुष्करादिभ्यः-' (५.२.१३५) इतीनिः । डलयोरैक्यम् । यद्वा नलमत्रास्ति । ‘खलादिभ्यः (वा० ४.२५१) इतीनिः । (नलः पोटगले राज्ञि पितृदेवे कपीश्वरे) । नली मनः शिलायां तु नलिनेऽपि नलं मतम्’ इति विश्वः । नलिनी पुनः । पद्माकरे गङ्गाब्जिन्योः’ इति हैमः