अरविन्दम्

सुधाव्याख्या

अरं शीघ्रं लिप्सां विन्दति । ‘गवादिषु विन्दे:- (वा० ३.१.३८) इति शः । ‘शे मुचादीनाम्' (७.१.५९) इति नुम् । अराकाराणि पत्त्राणि विन्दति वा ॥


प्रक्रिया

धातुः - विदॢँ लाभे


विद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अर + अम् + विद् + श – गवादिषु विन्देः संज्ञायामुपसंख्यानम् (3.1.38) । वार्तिकम् ।
अर + विद् + श सुपो धातुप्रातिपदिकयोः 2.4.71
अर + विद् + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
अर + वि + नुम् + द - शे मुचादीनाम् 7.1.59
अर + वि + न् + द - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अरविन्द + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अरविन्द + अम् - अतोऽम् 7.1.24
अरविन्दम् - अमि पूर्वः 6.1.107