उद्रः

सुधाव्याख्या

उनत्ति । 'उन्दी क्लेदने’ (रु० प० से०) । ‘स्फायि- (उ० २.१३) इति रक् ।


प्रक्रिया

धातुः - उन्दीँ क्लेदने


उन्द् - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
उन्द् + रक् - स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपिदृपिवन्द्युन्दिश्वितिवृत्यजिनीपदिमदिमुदि-खिदिछिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशीङ्हसिसिधिशुभिभ्यो रक् (२.१३) । उणादिसूत्रम् ।
उन्द् + र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
उद् + र - अनिदितां हल उपधायाः क्ङिति 6.4.24
उद्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
उद्र + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उद्र + रु - ससजुषो रुः 8.2.66
उद्र + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उद्रः - खरवसानयोर्विसर्जनीयः 8.3.15