यादांसि

सुधाव्याख्या

अथेति । यान्ति वेगेन । 'या प्रापणे' (अ० प० अ०) । असुन् (उ० ४.१८९) । बाहुलकाद्दुक् । यद्वा याति । क्विप् (३.२.१७८) । ‘अद भक्षणे’ (अ० प० अ०) । असुन् (उ० ४.१८९) । यां दस्यति वा । 'दसु उपक्षये’ (दि० प० से०) । क्विप् (३.२.१७८) । साहचर्यस्य सर्वत्रानियामकत्वात् 'सान्त-' (६.४.१०) इति दीर्घः । (१)