मकरः

सुधाव्याख्या

कृणाति । 'कॄ हिंसायाम्' (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । मनुष्याणां करः । पृषोदरादिः (६.३.१०९) । यद्वा मङ्कते । 'मकि भूषायाम्' (भ्वा० आ० से०) । अच् (३.१.१३४) । आगमशास्त्रस्यानित्यत्वान्न नुम् । मकं राति । 'रा दाने' (अ० प० अ०) । कः (३.२.३) 'मकरो निधौ नक्रे राशिविशेषे च' इति हैम: ॥