तिमिङ्गिलः

सुधाव्याख्या

तिमिं गिरति । 'गॄ निगरणे’ (तु० प० से०) । 'मूलविभुजा- (वा ३.२.५) इति कः । अचि विभाषा' (८.२.२१) इति लः । गिलेऽगिलस्य' (वा० ६.३.७०) इति मुम् । आदिशब्दात् तिमिंगिलगिलनन्दीवर्तादयः ॥ मत्स्यविशेषाणां पृथगेकैकम् ।


प्रक्रिया

धातुः - गॄ निगरणे


तिमि + अम् + गॄ + क - कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम् (3.2.5) । वार्तिकम् ।
तिमि + गॄ + क - सुपो धातुप्रातिपदिकयोः 2.4.71
तिमि + गॄ + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
तिमि + ग् + इर् + अ - ॠत इद्धातोः 7.1.100
तिमि + गिल् + अ - अचि विभाषा 8.2.21
तिमि + मुम् + गिल - गिलेऽगिलस्य (6.3.70) । वार्तिकम् ।
तिमि + म् + गिल - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तिमिंगिल - नश्चापदान्तस्य झलि 8.3.24
तिमिङ्गिल - अनुस्वारस्य ययि परसवर्णः 8.4.58
तिमिङ्गिल + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
तिमिङ्गिल + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तिमिङ्गिल + रु - ससजुषो रुः 8.2.66
तिमिङ्गिल + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तिमिङ्गिलः - खरवसानयोर्विसर्जनीयः 8.3.15