आनायः

सुधाव्याख्या

आनाय इति । नयनम् । णीञ् प्रापणे' (भ्वा० उ० अ०) । श्रिणीभुवः- (३.३.२४) इति घञ् । आसमन्तान्नायोऽनेन । आनयन्ति मत्स्यान् अनेन । जालमानायः (३.३.१२४) इति घञन्तो निपातितो वा ॥