जालम्

सुधाव्याख्या

जले क्षियते । ‘शेषे (४.२.९२) इत्यण् । जलति घनीभवति । ‘जल धान्ये (भ्वा० प० से०) । ‘ज्वलिति-’ (३.१.१४०) इति णः । ‘जालं वृन्दगवाक्षयोः । क्षारकानायदम्भेषु, नीपे ना, स्त्री तु घोषके’ इति रभसः ।