मत्स्याधानी

सुधाव्याख्या

मत्स्येति । मत्स्या आधीयन्तेऽत्र । 'डुधाञ् धारणपोषणयोः (जु० उ० अ०) । 'करणाधिकरणयोः- (३.३.११७) इति ल्युट् ।


प्रक्रिया

धातुः - डुधाञ् धारणपोषणयोः


धा - हलन्त्यम् 1.3.3, आदिर्ञिटुडवः 1.3.5, तस्य लोपः 1.3.9
आङ् + धा + ल्युट् - करणाधिकरणयोश्च 3.3.117
आ + धा + यु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
आ + धा + अन - युवोरनाकौ 7.1.1
आधान - अकः सवर्णे दीर्घः 6.1.101
मत्स्य + ङस् + आधान + सु - उपपदमतिङ् 2.2.19
मत्स्य + आधान - सुपो धातुप्रातिपदिकयोः 2.4.71
मत्स्याधान - अकः सवर्णे दीर्घः 6.1.101
मत्स्याधान + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
मत्स्याधान + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
मत्स्याधान् + ई - यस्येति च 6.4.148
मत्स्याधानी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मत्स्याधानी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मत्स्याधानी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68