बलिशम्

सुधाव्याख्या

बलिशमिति । बलिनो मत्स्याञ् श्यति । ’शो तनूकरणे’ (दि० प० अ०) । ‘आतोऽनुप–’ (३.२.३) इति क: ॥ डलयोरैक्याद् ‘बडिशम् अपि । स्त्रियां बडिशापचये तु बडिशी ।