वीचिः

सुधाव्याख्या

वयति, ऊयते वा । ‘वेञ् तन्तुसंताने (भ्वा० उ० अ०) । 'वेञो डिच्च' (उ० ४.७२) इतीचिः । यत्तु-वाति । वा गतिगन्धनयोः’ (अ० प० अ०) । ‘वातेः कित्–इति मुकुटः । तन्न । तथासति 'विः’ इति रूपप्रसङ्गात् । ’वातेर्डिच्च’ (उ० ४.१३४) इति सूत्रे ‘जनिघसिभ्यामिण्' (उ० ४.१३०) इति सूत्रात् 'इण्' इत्यनुवृत्तेः 'वीचिर्नित्यं स्त्री’ इति स्वामी । ‘वीचिः स्वल्पतरङ्गे स्यादवकाशे सुखे द्वयोः ।