ऊर्मिः

सुधाव्याख्या

ऋच्छति । 'ऋ गतौ’ (भ्वा० प० अ०) । अर्तेरुच्च' (उ० ४.४४) इति मिः अर्तेरुदादेशः (रपरः) । ‘वा स्त्रियाम्' इति काकाक्षिगोलकन्यायेनोर्मिवीचिभ्यां सम्बध्यते । 'पुंलिङ्गत्रीलिङ्गयोर्वीचिमणियष्टिमुष्टयः’ 'अशनित्रुटिशमिपाटलिशाल्मलितरणिश्रेण्यूर्मयः । 'वस्तिश्च' इति वामन: । 'ऊर्मिः पीडाजवोत्कण्ठा भङ्गप्राकाश्यवीचिषु । वस्त्रसंकोचलेखायाम्’ इति हैमः ॥