भङ्गः

सुधाव्याख्या

भङ्ग इति । भज्यते 'भञ्जो आमर्दने’ (रु० प० अ०) । कर्मणि घञ् (३.३.१९) । ‘भङ्गस्तरङ्गे भेदे च रुग्विशेषे पराजये । कौटिल्ये भयविच्छित्त्योः । (भङ्गा शाणे) इति हैमः ।