हूहू

सुधाव्याख्या

अव्युत्पत्तिपक्षे ‘आतो धातोः’ (६.४.१४०) इत्यस्याप्राप्तेः शसि हाहान्, ‘ओः सुपि’ (६.४.८३) इत्यस्याप्राप्तेर्हूहून्, इत्यादि । यत्तु - 'आतो धातोः (६.४.१४०) इति योगविभागादाकारलोपः इति मुकुटेनोक्तम् । तच्चिन्त्यम् । निर्णीतरूपस्य योगविभागेन निर्वाहस्यौचित्यात् । अप्रयुक्तस्य तेन साधनस्यानुचितत्वात् । हा इति शोकव्यञ्जकशब्दं जहाति । 'ओहाक् त्यागे’ (जु० प० अ०) । विच् (३.२.७२) । शसि हाहः । हू इति ह्वयति । ह्वेञः (भ्वा० उ० अ०) । क्विप् (३.२.१७८) । ‘वचिस्वपि-'(६.१.१५) इति संप्रसारणम् । हलः’ (६.४.२) इति दीर्घः । बाहुलकाड्डाप्रत्यये तु (हाहाः) व्युत्पन्नोऽधातुश्च । एवं डूप्रत्यये हूहूरपि बोध्यः । हाहाः सान्तोऽपि । गन्धर्वो वीतिहाहसो:’ इति संसारावर्तात् । 'गन्धर्वो हाहसि प्रोक्तः' इति रत्नकोषाच्च । भोजस्तु हहाहुहुशब्दयोरव्ययत्वमाह । ‘हहाः' इत्यादिह्रस्वः । ‘हुहुः’ इत्युभयह्रस्वश्च । ‘हंसो हहाहुहू च द्वौ वृषणश्वश्च तुम्बुरुः' इति शब्दार्णवात् । गीतमाधुर्यसंपन्नौ विख्यातौ च हहाहुहू' इति व्यासोक्तेश्च ।