अप्सरसः

सुधाव्याख्या

अद्भ्यः सरन्ति । सरतेरसुन्' (उ० ४.२३७) । ‘बहुषु’ इति प्रायोवादः । अनचि च (८.४.४७) इति सूत्रे ‘अप्सराः’ इति भाष्यप्रयोगात् । स्त्रियां बहुष्वप्सरसः स्यादेकत्वेऽप्सरा अपि’ इति शब्दार्णवाच्च अस्य शुभंयाशब्दवद्रूपम् इति मुकुटोक्तं चिन्त्यम् । अप्सरः शब्दस्य सान्तत्वात् ।