उर्वशी

सुधाव्याख्या

उरून्महतोऽश्नुते व्याप्नोति वशीकरोतीति यावत् । 'कर्मण्यण्' (३.२.१) । संज्ञापूर्वकस्य विधेरनित्यत्वान्न वृद्धिः । मूलविभुजादित्वात् (वा० ३.२.५) को वा । उरु अश्नातीति वा । मुखशब्देनाद्यर्थेन रम्भामेनका-घृताची-तिलोत्तमादीनां ग्रहणम् ।