गन्धर्वः

सुधाव्याख्या

गन्धं सौरभमर्वति । 'अर्व गतौ” (भ्वा० प० से०) पवर्गीयान्तः । 'कर्मण्यण्' (३.२.१) । शकन्ध्वादिः (वा० ६.१.९४) ('गन्धर्वस्तु नभश्चरे । पुंस्कोकिले गायने च मृगभेदे तुरंगमे । अन्तराभवदेहे च ' । प्रज्ञाद्यणि (५.४.३८) (गान्धर्वः) दीर्घादिरप्ययम् । 'अपि गन्धर्वगान्धर्वदिव्यगायनगातवः’ इति शब्दार्णवात् ।