दमुनाः

सुधाव्याख्या

दमु उपशमे' (दि० प० से०) । अन्तर्भावितण्यर्थाद् 'दमेरुनसिः । (उ० ४.२३५) । दाम्यति । दमूनाः, दमुनसौ । दीर्घमध्योऽपि । दमूना दमुनाः प्राचीनबर्हिः शुचिबर्हिषौ' इति नामनिधानात् ।।