शुक्रः

सुधाव्याख्या

शोचयति । 'ऋजेन्द्र-' (उ० २.२८) इति निपातितः । शुक्रं रेतोऽस्यास्तीति वा । अर्शआद्यच् (५.२.१२७) शुक्लवर्णत्वादिति वा । रलयोरेकत्वम् । ('शुक्रः स्याद्भार्गवे ज्यष्ठमासे वैश्वानरे पुमान् । रेतोऽक्षिरुग्भिदोः क्लीबम्’)


प्रक्रिया

धातुः - शुचँ शोके


शुच् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शुक् + रन् - ऋज्रेन्द्राग्रवज्रविप्रकुव्रचुव्रक्षुरखुरभद्रोग्रभेरभेलशुक्रशुक्लगौरवम्रेरामालाः (२.२८) । उणादिसूत्रम् ।
शुक् + र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
शुक्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
शुक्र + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शुक्र + रु - ससजुषो रुः 8.2.66
शुक्र + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शुक्रः - खरवसानयोर्विसर्जनीयः 8.3.15