और्वः

सुधाव्याख्या

और्व इति । उर्वस्य मुनेरपत्यम् । यत्तु विदाद्यञ् (४.१.१०४) । बहुत्वे ‘यञञोश्च' (२.४.६४) इति लुकि उर्वाः इति मुकुटः । तन्न । अनन्तरापत्येऽञोऽसम्भवात् । तस्मादृष्यण् (४.१.११४) ।