अन्धकारः

सुधाव्याख्या

अन्धेति । ‘अन्ध दृष्ट्युपघाते (चु० उ० से०) चुरादिः । अन्धनम् घञ् (३.३.१८) । अन्धं करोति । 'कर्मण्यण्' (३.२.१)।


प्रक्रिया

धातुः - अन्ध दृष्ट्युपघाते , डुकृञ् करणे


अन्ध दृष्ट्युपघाते
अन्ध् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अन्ध् + घञ् - भावे 3.3.18
अन्ध् + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
डुकृञ् करणे
कृ - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, आदिर्ञिटुडवः 1.3.5, तस्य लोपः 1.3.9
अन्ध + अम् + कृ + अण् - कर्मण्यण् 3.2.1, उपपदमतिङ् 2.2.19
अन्ध + कृ + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
अन्ध + कृ + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अन्ध + कार् + अ - अचो ञ्णिति 7.2.115
अन्धकार + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अन्धकार + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अन्धकार + रु - ससजुषो रुः 8.2.66
अन्धकार + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अन्धकारः - खरवसानयोर्विसर्जनीयः 8.3.15