तमः

सुधाव्याख्या

ताम्यत्यनेन । तमु ग्लानौ (दि० प० से०) । असुन् (४.१८९) । ('तमो ध्वान्ते गुणे शोके क्लीबं, वा ना विधुंतुदे') इति मेदिनी । (उ० ३.११७) असचि) तमसमपि । ‘तमसं तु निशाचर्म' इति त्रिकाण्डशेषात् । (स्त्रियां तु तमसा नदीविशेषे) ।