तमिस्रम्

सुधाव्याख्या

तमोऽस्त्यत्र । भावप्रधानो निर्देशः । ‘ज्योत्स्नातमिस्रा-' इति साधु । तमिस्रास्त्याश्रयत्वेनास्येति वा अर्श आद्यच् (५.२.१२७) । 'तमिस्रं तिमिरे कोपे, तमिस्रा तु तमस्ततौ । कृष्णपक्षनिशायां च' इति विश्वमेदिन्यौ ।