पटहः

सुधाव्याख्या

आनक इति ॥ पटेन हन्यते । ड: (वा० ३.२.१०१) । ‘पट’ इति शब्दं जहाति । ‘आतोऽनुप-' (३.२.३) इति कः इति वा । ‘पटहो ना समारम्भे आनके पुंनपुंसकम् । अस्त्रीति पूर्वान्वयि । ‘उपवासं गृहं देहं लोहं पटहमित्यपि इति पुंनपुंसकाधिकारे चन्द्रगोम्युक्तेः ।