आनकः

सुधाव्याख्या

आनित्यनेन वादितेन । क्वुन् (उ० २.३२) आनयति प्राणयति सोत्साहान्करोति योधान् । ण्वुल् (३.१.१३३) वा । ‘आनकः पटहे भेर्यां मृदङ्गे ध्वनदम्बुदे’ ॥ स्वामी तु भेरी स्त्री दुन्दुभिः पुमान्’ इति पठति ।