कोणः

सुधाव्याख्या

कोण इति । वीणादि वाद्यते येन धनुराद्याकृतिना स कोणः । कुण्यते । ‘कुण शब्दोपकरणयोः’ (तु० प० से०) हलश्च (३.३.१२१) इति घञ् । ‘द्वयोस्तु‘ कोणो वीणादेर्वादनं सारिका च सा’ इति शब्दार्णवः । ‘कोणो वाद्यप्रभेदे स्याद्वीणादीनां च वादने । एकदेशे गृहादीनामस्रौ च लगुडेऽपि च' इति मेदिनी । कोणो वीणादिवादने । लगुडेऽस्रौ लोहिताङ्गे' इति हैमः