धर्मसंहिता

सुधाव्याख्या

धर्मबोधार्थं रचिता संहिता । सम्पूर्वाद्दधातेः कर्मणि क्ते ‘दधातेर्हिः’ (७.४.४२) ॥


प्रक्रिया

धातुः - डुधाञ् धारणपोषणयोः


धा - हलन्त्यम् 1.3.3, आदिर्ञिटुडवः 1.3.5, तस्य लोपः 1.3.9
सम् + धा + क्त - तयोरेव कृत्यक्तखलर्थाः 3.4.70
सम् + धा + त - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
सम् + हि + त - दधातेर्हिः 7.4.42
संहित - नश्चापदान्तस्य झलि 8.3.24
संहित + टाप् - अजाद्यतष्टाप्‌ 4.1.4
संहित + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
संहिता - अकः सवर्णे दीर्घः 6.1.101
संहिता + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
संहिता + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
संहिता - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
धर्म + सु + संहिता + सु - षष्ठी 2.2.8
धर्मसंहिता - सुपो धातुप्रातिपदिकयोः 2.4.71
धर्मसंहिता + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
धर्मसंहिता + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
धर्मसंहिता - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68