सङ्ग्रहः

सुधाव्याख्या

संग्रहणम् । ‘ग्रहवृदृ’ (३.३.५८) इत्यप् । ‘विस्तरेणोपदिष्टा नामर्थानां सूत्रभाष्ययोः । निबन्धो यः समासेन संग्रहं तं विदुर्बुधाः । संग्रहो बृहदुद्रङ्गे मुष्टिसंक्षेपयोरपि' इति मेदिनी ॥