प्रवल्हिका

सुधाव्याख्या

प्रवल्हते आच्छादयति । ‘वर्ह वल्ह परिभाषणहिंसाच्छादनेषु’ (भ्वा० आ० से०) । दन्त्योष्ठयादिर्हान्त: ‘क्वुन्’ शिल्पिसंज्ञयोः-' (उ० २.३२) । ण्वुल् (३.१.१३३) वा ॥


प्रक्रिया

धातुः - वल्हँ परिभाषणहिंसाच्छादनेषु


वल्ह् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्र + वल्ह् + क्वुन् - क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि (२.३२) । उणादिसूत्रम् ।
प्र + वल्ह् + वु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
प्र + वल्ह् + अक - युवोरनाकौ 7.1.1
प्रवल्हक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
प्रवल्हक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
प्रवल्हका - अकः सवर्णे दीर्घः 6.1.101
प्रवल्हिका - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44
प्रवल्हिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्रवल्हिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रवल्हिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68