प्रहेलिका

सुधाव्याख्या

प्रहेलयति अभिप्रायं सूचयति । हिल भावकरणे' (तु० प० से०) । ण्वुल् (३.१.११३) । व्यक्तीकृत्य कमप्यर्थं स्वरूपार्थस्य गोपनात् । यत्र बाह्यार्थसम्बन्धः कथ्यते सा प्रहेलिका' । यद्वा प्रवल्हतेरिनि (उ० ४. ११८) प्रवल्हिः । ततः 'कृदिकारात्' (ग० ४.१.४५) इति ङीष् । उभाभ्यां स्वार्थे कन् । प्रहेलिका प्रवल्ही च प्रश्नदूती विपादिका इत्युत्पलिनी ।