आम्नायः

सुधाव्याख्या

आम्नायते अभ्यस्यते । ‘म्ना अभ्यासे' (भ्वा० प० अ०) । कर्मणि घञ् (३.३.१९) । आमन त्युपदिश्यति धर्माधर्मौ’ इति वा । ‘श्याद्वयधा- (३.१.१४१) इति ण: । ‘आम्नायः कुल आगमे । उपदेशे च' इति हैमः ।। यत्तु त्रीणि वेदस्य । त्रयीति । त्रय्या धर्मस्त्रयीधर्मः । तया त्रय्या विधिर्विधीयमानो यज्ञादिस्तद्विधिः । विधानमृग्यजुःसाम्नां त्रयीधर्म विदुर्बुधाः। एकम्-इति मुकुटः तन्न । ‘तानि धर्माणि’ 'धर्मेण पापमपनुदति','वेदोऽखिलो । धर्ममूलं धर्ममूलमिदं स्मृतम्, ‘अथातो धर्मजिज्ञासा’, 'चोदना लक्षणोऽर्थो धर्मः’, 'श्रेयान्स्वधर्मः’, 'धर्मक्षेत्रे कुरुक्षेत्रे’ 'धर्मः प्रोज्झितकैतवः’, 'धर्मस्य ह्यपवर्ग्यस्य’, 'धनं च धर्मैकफलम्’, ‘धर्मादर्थश्च', ‘धर्मो रक्षति रक्षित:’, ‘धर्माधर्मौ तद्विपाकाः’, ‘धर्मं जिज्ञासमानेन' इत्यादिषु बहुषु ग्रन्थेषु धर्मशब्दस्यैव प्रयोगदर्शनात् । देवदत्तो दत्तः, इतिवदेते प्रयोगाः सन्त्विति चेत् । न । वैषम्यात् । देवदत्तशब्दस्यानेकस्थले प्रयोगो दृष्टः । क्वचिद्दत्तशब्दस्यापि प्रयोगे दृष्टे पूर्वपदलोपादिकं कल्प्यते । प्रकृते तु धर्मशब्दस्यैव प्रयोगो दृष्टः । ‘एवं त्रयीधर्मम्’ इत्यादौ च क्वचित्रयीधर्मशब्दस्यापि प्रयोगे लब्धे षष्ठीसमासः कल्प्यते । प्रतिपाद्यप्रतिपादकभावः सम्बन्धः षष्ठ्यर्थः । तान्त्रिकसौगतादि धर्मव्यावृत्त्यर्थमिदं धर्मस्य विशेषणं संगच्छते । ‘धर्मस्य च चतुर्दश' इति नियमात् । अतस्त्रय्यन्तानि चत्वारि वेदस्य नामानि । न च ‘वेदास्त्रयस्त्रयी’ इत्यनेन पौनरुक्त्यं शङ्क्यम् । सामान्यविशेषरूपेणोभयसम्भवात् । 'ब्राह्मणक्षत्रियवैश्या द्विजाः विप्रोऽपि द्विजः’ इति यथा । न च ‘धर्ममस्त्रियाम्' इत्यनेन पौनरुक्त्यम् । तत्र धर्मपर्यायाणामभिधानात् । इह तु धर्मस्वरूपस्य धर्मप्रमाणस्य चाभिधानात् । यदपि–समासे गुणीभूतस्यापि त्रयीशब्दस्य बहुविवक्षावशात्तच्छब्देन परामर्शः-इत्युक्तम् । तदपि न । तन्मते त्रयीधर्मशब्दस्य विधेयत्वात्तदेकदेशस्य त्रयी शब्दस्यानुवाद्यत्वासम्भवात् । वेदस्यैव तच्छब्देन परामर्शसम्भवाच्च । यदपि-यथा शब्दानुशासनम् इति दृष्टान्तप्रदर्शनम् । तदप्येतेन प्रत्युक्तम् । वेदस्यैव परामर्शसम्भवात् ।