धर्मः

सुधाव्याख्या

धर्म इति । तेन वेदेन विधीयते यज्ञादिः । एतेन वेदविहितत्वं धर्मत्वम्, वेदश्च धर्मे प्रमाणम्-इत्युक्तम् । धरति लोकान्। ध्रियते वा जनैरिति धर्मः । ‘अर्तिस्तुसु-’ (उ० १.१४०) इत्यादिना धृञो मन् ।