चित्ताभोगः

सुधाव्याख्या

चित्तस्य मनस आभोगस्तदेकप्रवणता पूर्णता वा । ‘आभोगो वारुणच्छत्रे पूर्णतायत्नयोरपि' । 'भुज पालनाभ्यवहारयोः’ (रु० प० अ०) । भावे घञ् (३.३.१८) ।


प्रक्रिया

धातुः - भुजँ पालनाभ्यवहारयोः


भुज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आ + भुज् + घञ् - पुरोऽग्रतोऽग्रेषु सर्तेः 3.2.18
आभुज् + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
आभुग् + अ - चोः कुः 8.2.30
आभोग - पुगन्तलघूपधस्य च 7.3.86
चित्त + ङस् + आभोग + सु - षष्ठी 2.2.8
चित्त + आभोग - सुपो धातुप्रातिपदिकयोः 2.4.71
चित्ताभोग - अकः सवर्णे दीर्घः 6.1.101
चित्ताभोग + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
चित्ताभोग + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चित्ताभोग + रु - ससजुषो रुः 8.2.66
चित्ताभोग + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चित्ताभोगः -खरवसानयोर्विसर्जनीयः 8.3.15