मेधा

सुधाव्याख्या

धारणाशक्तियुक्ता धीः । मेधृ संगमे (भ्वा० उ० से०) । मेधते संगच्छते सर्वमस्याम् । गुरोश्च-’ (३.३. १०३) इत्यकारः । (‘मेधा बुद्धौ, क्रतौ पुमान् ) ।