संख्या

सुधाव्याख्या

संख्यानम् । 'चक्षिङः ख्या' (२.४.५४) । ‘आतश्च-'(३ ३.१०६) इत्यङ् । ‘संख्यैकादौ विचारे च' ।


प्रक्रिया

धातुः - चक्षिङ् व्यक्तायां वाचि


चक्ष् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सम् + चक्ष् + अङ् - आतश्चोपसर्गे 3.3.106
सम् + चक्ष् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
सम् + ख्याञ् + अ - चक्षिङः ख्याञ्‌ 2.4.54
सम् + ख्या + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
सम् + ख्य् + अ - आतो लोप इटि च 6.4.64
संख्य - नश्चापदान्तस्य झलि 8.3.24
सङ्ख्य - अनुस्वारस्य ययि परसवर्णः 8.4.58
सङ्ख्य + टाप् - अजाद्यतष्टाप्‌ 4.1.4
सङ्ख्य + आ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
सङ्ख्या - अकः सवर्णे दीर्घः 6.1.101
सङ्ख्या + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सङ्ख्या + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सङ्ख्या - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68