विचारणा

सुधाव्याख्या

'चर असंशये (चु० उ० से०) चुरादिः । ण्यास-' (३ ३.१०७) इति युच् ।


प्रक्रिया

धातुः - चरँ संशये


चर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वि + चर् + णिच् - सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 3.1.25
वि + चर् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
वि + चार् + इ - अत उपधायाः 7.2.116
वि + चार् + इ + युच् - ण्यासश्रन्थो युच् 3.3.107
विचार् + युच् - णेरनिटि 6.4.51
विचार् + यु - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
विचार् + अन - युवोरनाकौ 7.1.1
विचारण - अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2
विचारण + टाप् - अजाद्यतष्टाप्‌ 4.1.4
विचारण + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
विचारणा - अकः सवर्णे दीर्घः 6.1.101
विचारणा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
विचारणा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विचारणा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68