शुभ्रः

सुधाव्याख्या

शोभते । ‘शुभ दीप्तौ, शोभायां वा’ (भ्वा० आ० से०) । 'स्फायि’ (उ० २.१३) इति रक् । ‘शुभ्रं दीप्तेऽभ्रके सिते’ इति हैमः ।


प्रक्रिया

धातुः - शुभँ दीप्तौ


शुभ् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शुभ् + रक् - स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपिदृपिवन्द्युन्दिश्वितिवृत्यजिनीपदिमदिमुदि-खिदिछिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशीङ्हसिसिधिशुभिभ्यो रक् (२.१३) । उणादिसूत्रम् ।
शुभ्र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
शुभ्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
शुभ्र + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शुभ्र + रु - ससजुषो रुः 8.2.66
शुभ्र + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शुभ्रः -खरवसानयोर्विसर्जनीयः 8.3.15