शुक्लः

सुधाव्याख्या

शोकति मनोऽस्मिन् । ‘शुक गतौ” (भ्वा० प० से०) । 'ऋज्रेन्द्र-' (उ० २.२८) इति निपातितः । ‘शुक्लो योगान्तरे सिते । नपुंसकं तु रजते’ ।


प्रक्रिया

धातुः - शुकँ गतौ


शुक् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शुक्ल - ऋज्रेन्द्राग्रवज्रविप्रकुव्रचुव्रक्षुरखुरभद्रोग्रभेरभेलशुक्रशुक्लगौरवम्रेरामालाः (२.२८) । उणादिसूत्रम् ।
शुक्ल + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
शुक्ल + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शुक्ल + रु - ससजुषो रुः 8.2.66
शुक्ल + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शुक्लः - खरवसानयोर्विसर्जनीयः 8.3.15