ऋतुः

सुधाव्याख्या

'ऋ गतौ’ । अर्तेश्च (उ० १.७२) इति तुः, चात्कित् । यत्तु मुकुटेनोक्तम्—केत्वादय इति तुन् – इति । तन्न । गुणप्रसङ्गात्, अपाणिनीयत्वाच्च ।