शरत्

सुधाव्याख्या

शीर्यन्तेऽस्यां पाकेनौषधय: । ‘शॄ हिंसायाम्’ (क्र्या० प० से०) । ‘शॄदॄभसोऽदिः’ (उ० १.१३०) । (‘शरत् स्त्री वत्सरेऽप्यृतौ’) भागुरिमते टापि शरदा च । ‘शरद्भवेच्छरदया प्रावृट् प्रावृषया सह’ इति विश्वः ।