ऊष्मागमः

सुधाव्याख्या

'ऊष रुजायाम्’ (भ्वा० प० से०) । मनिन् (३.२.७५) । आगच्छति । पचाद्यच् (३.१.१३४) । ऊष्मा तप आगमोऽत्र ॥ ‘ऊष्मा’ अपि । ‘ऊष्मा तपनिदाघयोः’ इति नान्ते बोपालितः ।


प्रक्रिया

धातुः - ऊषँ रुजायाम् , गमॢँ गतौ


ऊषँ रुजायाम्
ऊष् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ऊष् + मनिन् - अन्येभ्योऽपि दृश्यन्ते 3.2.75
ऊष् + मन् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ऊष्मन् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
ऊष्मन् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ऊष्मान् + स् - सर्वनामस्थाने चासम्बुद्धौ 6.4.8
ऊष्मान् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
ऊष्मा - नलोपः प्रातिपदिकान्तस्य 8.2.7
गमॢँ गतौ
गम् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आङ् + गम् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
आ + गम् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
ऊष्मा + सु + आगम + सु - अनेकमन्यपदार्थे 2.2.24
ऊष्मा + आगम - सुपो धातुप्रातिपदिकयोः 2.4.71
ऊष्मागम - अकः सवर्णे दीर्घः 6.1.101
ऊष्मागम + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
ऊष्मागम + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ऊष्मागम + रु - ससजुषो रुः 8.2.66
ऊष्मागम + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ऊष्मागमः -खरवसानयोर्विसर्जनीयः 8.3.15