अमरकोशः


श्लोकः

अल्पे नीचैः महत्युच्चैः प्रायो भूम्न्यद्रुते शनैः । सना नित्ये बहिर्बाह्ये स्मातीतेऽस्तमदर्शने ॥ १७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 नीचैस् नीचैस् अव्ययम् नि चीयते डैसि उणादिः सकारान्तः
2 उच्चैस् उच्चैस् अव्ययम् उच्चीयते डैसि उणादिः सकारान्तः
3 प्रायस् प्रायस् अव्ययम् प्रायणम् असुन् उणादिः सकारान्तः
4 शनैस् शनैस् अव्ययम् शणति, शानयति वा ऐस् सकारान्तः
5 सना सना अव्ययम् सनति आकारान्तः
6 बहिस् बहिस् अव्ययम् इस् सकारान्तः
7 स्म स्मः अव्ययम् स्यति डम् अकारान्तः
8 अस्तम् अस्तम् अव्ययम् असनम् तम् मकारान्तः