अमरकोशः


श्लोकः

लोकालोकश्चक्रवालस्तिकूटस्त्रिककुत्समौ! अस्तस्तु चरमक्ष्माभृदुदयः पूर्वपर्वतः ॥ २ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 लोकालोक लोकालोकः पुंलिङ्गः तत्पुरुषः समासः अकारान्तः
2 चक्रवाल चक्रवालः पुंलिङ्गः चक्रे भूमण्डलं वलते । तत्पुरुषः समासः अकारान्तः
3 त्रिकूट त्रिकूटः पुंलिङ्गः त्रीणि कूटान्यस्य । बहुव्रीहिः समासः अकारान्तः
4 त्रिककुद् त्रिककुद् पुंलिङ्गः त्रीणि ककुद सदृशानि श्रृङ्गाण्यस्य । बहुव्रीहिः समासः दकारान्तः
5 अस्त अस्तः पुंलिङ्गः असति स्म । क्त कृत् अकारान्तः
6 चरमक्ष्माभृत् चरमक्ष्माभृत् पुंलिङ्गः चरन्त्यत्र । तकारान्तः
7 उदय उदयः पुंलिङ्गः उद्यन्ति ग्रहा अस्मात् । अच् कृत् अकारान्तः
8 पूर्वपर्वत पूर्वपर्वतः पुंलिङ्गः पूर्वः पूर्वतः । अकारान्तः