चक्रवालः

सुधाव्याख्या

चक्रे भूमण्डलं वलते । ‘वल वेष्टने’ (भ्वा० आ० से०) । 'कर्मण्यण्' (३.२.१) । डलयोरेकत्वस्मरणात् 'चक्रवाड:’ अपि । यद्वा चक्राकारेण वाडते । वाडृ आप्लाव्ये (भ्वा० आ० से०) । पचाद्यच् (३.१.१३५) । ‘चक्रवालमस्यास्ति’ इति वा । अर्श आद्यच् (५.२.१२७) । 'चक्रवालोऽद्रिभेदे स्याच्चक्रवालं तु मण्डले’ इति हैमः ।